Saturday, October 3, 2020

चतुर: काक:

 


एक: काक: अस्ति । स: तृषित: अस्ति । स: अत्र पश्यति, तत्र पश्यति, सर्वत्र पश्यति, किन्तु कुत्रापि जलं नास्ति । काक: उड्डयनं कृत्वा अन्यत्र गच्छति । दुरे एकं घटं पश्यति । सन्तोषेण घटस्य समीपं गच्छति, किन्तु घटे किञ्चिदेव जलम् अस्ति । घटस्य समीपे शिलाखण्डा: सन्ति । काक: एकम् उपायं करोति। एकं एकं कृत्वा शिलाखण्डान् स्वीकृत्य घटे क्षिपति । जलं उपरि उपरि आगच्छति । अन्ते काक: जलं पिबति, सन्तुष्टेन गृहं गच्छति । 

No comments:

Post a Comment