Friday, July 3, 2020

नैवेद्यस्य महत्वम्

बहुदिनेभ्य: पूर्वम् अहम् नैवेद्यस्य महत्वम् प्रति काञ्ची महास्वामिना दत्ता लध्वी कथा अपठम् । तस्य लेखनस्य अनुवादम् करणीयम् इति तद्दिनात् मम मनसि इच्छा आसीत् । अन्तत: मया अकृतम् ।

नैवेद्यस्य महत्वम्

कस्मिन्श्चन​ आश्रमे एक: गुरु: तस्य शिष्यै: सह वस्ति स्म । तन्मध्ये एकस्य शिष्यस्य पूजाकार्येषु विश्वास: नासीत् । प्रतिदिनम् गुरुणा क्रियमाणं पूजां नैवेद्यं च दृष्ट्वा स: एकदा गुरुं पृषटवान् यत् "गुरो । प्रतिदिनम् भवान् देवाय नैवेद्यम् तु ददाति, किन्तु यदि देव: वास्तवे प्रवर्तते तर्हि स: कनिष्ठपक्षं किञ्चित् स्वीकरणीयं किल? किन्तु एकस्मिन् दिने अपि नैवेद्यस्य परिमाणस्य न्यूनीकरणं न भवति । यत्किमपि वयम् देवं दद्म:, तत् सर्वं प्रसादरूपेण पुन: प्राप्नुम: एव । तर्हि किमर्थम् इदं कार्यं पुन: पुन: क्रियते भवता? देव: अस्ति वा न वा इति कथं ज्ञातव्यम्?" इति ।

गुरु: किमपि उत्तरं न दत्तवान्, मन्दहासं कृतवान् एव । पूजासमापित: स: शिष्यान् कक्ष्यार्थं सिद्धाः भवितुम् प्रार्थितवान् । तद्दिने गुरु: शिष्यान् उपनिषदात् "पूर्णमदः पूर्णमिदम्…" इति मन्त्रम् पाठितवान् । मन्त्रस्य अर्थम् अपि व्याख्यितवान् स: यत् "सर्वम् पूर्णात् आगत्य पूर्णम् एव प्रतिगच्छति" इति ईशावास्य उपनिषदात् । शिक्षानन्तरम् स: सर्वान् छात्रान् तम् मन्त्रम् रटनम् कर्तुम् प्रार्थितवान् । शिष्या: अपि तदैव कुर्वन्तः आसन् । किञ्चित् कालानन्तरम् गुरु: शङ्कमानं छात्रम् आहूय "पुस्तकदर्शनेन विना मन्त्रम् कथयतु" इति आदिष्टवान् । छात्र: दोषेण विना मन्त्रम् अवदत्। तदा गुरु: तम् पृषटवान् "वत्स । पुस्तके यत्किमपि अस्ति तत् सर्वम् उक्तवान् वा भवता?" इति । छात्र: "आं गुरो ।" इति उत्तरम् दत्तवान् । मन्दहसित: गुरु: तदा उक्तवान् "यदि भवता पुस्तके स्थिता: शब्दा: स्वीक्रियते, तर्हि ते शब्दा: पुस्तके अधुना अपि कथम् स्थिता: आसन्?"  इति । छात्रेण किमपि उत्तरम् न वक्तुम् अशक्यत । गुरु: एव व्याख्यितवान् यत् "भवत: मनसि ये शब्दा: सन्ति, ते सूक्ष्मस्थित्याम् सन्ति, केनापि ते न दृष्यन्ते । किन्तु पुस्तके ये शब्दा: सन्ति, ते स्थूलस्थित्याम् सन्ति, अत: ते दृष्यन्ते । तथा एव देव: अपि सूक्ष्मस्थित्याम् अस्ति । अस्माकम् नैवेद्यम् तु स्थूलस्थित्याम् अस्ति किन्तु स: सूक्ष्मरूपे एव तत् स्वीकरोति, तत: नैवेद्यस्य परिमाणम् कदापि न्यूनीकरणं न भवति । प्रसादं तु स्थूलस्थित्याम् एव अस्ति खलु?" इति । एतानि वचनानि श्रुत्वा शिष्य: तस्य आशङ्कातः मुक्ति: प्राप्तवान्, गुरौ आत्मसमर्पणम् कृतवान् च।

अनुवाद: जगदीशेन ।