एका धेनु: अस्ति । सा तृषिता अस्ति । सा गृहात् बहि: तिष्ठति, आपणात् बहि: तिष्ठति, किन्तु कोऽपि मानव: जलं न ददाति । धेनु: मार्गे पश्यति । मानवा: एकस्मात् जलयन्त्रात् जलं प्राप्तवन्त: सन्ति । यदा यदा ते जलयन्त्रस्य दण्डम् उपरि-अध: कुर्वन्ति, तदा तदा जलयन्त्रात् जलं पतति । यदा मानवा: तत: गच्छन्ति, धेनु: जलयन्त्रस्य समीपं गत्वा तस्या: मुखेन दण्डम् उपरि-अध: करोति । जलं पतति ! धेनु: आनन्देन पिबति । एतादृषं बहुवारं जलयन्त्रात् जलं प्राप्य पिबति । अन्ते सन्तुष्टेण गृहं गच्छति ।
No comments:
Post a Comment