Monday, January 1, 2018

सज्जनानाम् महत्वम्

सर्वेभ्य​: नूतनवर्षशुभाशया: । एतस्मिन् दिने मया लिखिता एका लघ्वी कथा अध​: स्थापितवान् । कृपया पठतु ।

कस्मिन्श्चित् नगरे एकम् लोकयानं बहून् जनान् नयत् आगच्छत् आसीत् । तदा अकस्मात् वातावरणं पर्यवर्तत् । अतिवृष्टि: अभवत् । पुन: पुन: आकाशे विद्युत् द्योतते स्म । प्रत्येक: वज्रपात: तत् लोकयानम् आक्रमयति स्म, किन्तु कथञ्चित् एक: अपि सफल: न जात: । तदा यानचालक: उक्तवान् यत् "अस्मासु एकः कोपि एतादृश: अस्ति यस्य मृत्यु: अद्य अवशयः भविष्यति । अत: एव वज्रपात: पुन: पुन: अस्मान् आक्रमणम् करोति । एकस्य दौर्भाग्यस्य कारणात् वयम् सर्वे मृता: भवेम, एतत् अहम् कदापि न अङ्गीकरोमि । अत: मया एकः उपायः सूच्यते । कस्मिन्श्चित् दूरे एक: बृहन् वृक्ष: अस्ति । अहम् वाहनं तस्मात् वृक्षात् अनतिदूरे स्थापयिष्यामि । अस्माभि: सर्वै: एकैकतया वाहनात् अवतीर्य स: वृक्ष: स्पर्शितव्यम्, पुन: आगन्तव्यम् च। यस्य दौर्भाग्यम् अद्य अस्ति तस्य क्रमे विद्युत् अवश्यम् तम् मारयिष्यति" इति । सर्वे जना: एतम् उपायम् अङ्गीकृतवन्त: । चालक: यथा उक्तवान् तथैव वाहनं स्थापितवान् । प्रथम: पुरुष: महत्या भीत्या वाहनात् अवतीर्य वृक्षम् प्रति गच्छति स्म । वृक्षम् स्पर्शित्वा स्वस्ति सन्तोषेण स: प्रत्यागतवान् अपि । द्वितीय: पुरुष: अपि भीत्या गच्छति स्म किन्तु कामपि पीडाम् विना आनन्देन प्रत्यागतवान् । तथा एव क्रमशः जनाः भीत्या वाहनात् अवतीर्य वृक्षं स्पर्शित्वा स्वस्ति सन्तोषेण वाहनं प्रत्यागच्छन्ति स्म । अन्तत: वाहनस्य अन्तिमस्य पुरुषस्य क्रम: आगत: । सर्वे जना: तम् बहु द्वेषेण दृष्टवन्त:, तस्य कारणात् एव तेषाम् जीवनानि आपदि सन्ति इति निर्णयम् कृतवन्त: च । स: अन्तिम: पुरुष: महान् सज्जन: आसीत् । सर्वदा अन्यान् जनान् कथम् परोपकारम् कर्तुम् शक्यते, तदेव तस्य चिन्तनम् आसीत् । किन्तु तस्मिन् समये तु स: अपि महतीं भीतिम् अनुभूतवान् । तस्य जीवनस्य अन्तिम क्षणानि एतानि इति चिन्तयन् स: वाहनात् अवतीर्य वृक्षम् प्रति गतवान् । यदा स: वृक्षम् स्पर्शितवान् तदा पुन: विद्युत् आकाशे द्योतते स्म । किन्तु तत्  विद्युत् तं पुरुषं त्यक्त्वा तत् लोकयानम् एव आक्रमयति स्म, च सर्वान् जनान् मारयति स्म । वस्तुत: तस्य सज्जनपुरुषस्य उपस्थित्याः कारणात् एव विद्युत् यानस्य अन्यान् जनान् आक्रमणम् कर्तुम् न शक्यते स्म । यदा स: सज्जन: यानात् बहि: गतवान् तान् जनान् रक्षयितुम् कोपि न विद्यते स्म, अत: ते सर्वे मृता: आसन् । तथा एव अस्माकम् जीवनेषु अपि सज्जनानाम् सत्कार्याणि अस्मान् रक्षयन्ति, अत: तेषाम् सम्पर्कं सर्वदा आवश्यकम् एव ।

अनुवाद​:
जगदीशेन​